|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.229. अध्यायः 229
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ज्ञानस्य श्रेयःसाधनत्वज्ञानोपायादिप्रतिपादकेन्द्रप्रह्नादसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-229-0x(6149)(74340)
यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम्।
पुरुषं योजयत्येव फलयोगेन भारत॥ 12-229-1(74341)
कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः।
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह॥ 12-229-2(74342)
भीष्म उवाच। 12-229-3x(6150)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर॥ 12-229-3(74343)
असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम्।
अस्तब्धमनहंकारं सत्वस्थं संयतेन्द्रियम्॥ 12-229-4(74344)
तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम्।
चराचराणां भूतानां विदितप्रभवाप्ययम्॥ 12-229-5(74345)
अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च।
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम्॥ 12-229-6(74346)
आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम्॥
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम्॥ 12-229-7(74347)
`अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि।
हृदयेन समाविष्टं सर्वभावप्रियंकरम्॥ 12-229-8(74348)
भक्तं भागवतं नित्यं नारायणपरायणम्।
ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम्॥' 12-229-9(74349)
शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम्।
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत्॥ 12-229-10(74350)
यैः कैश्चित्संमतो लोके गुणैः स्यात्पुरुषो नृषु।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे॥ 12-229-11(74351)
अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह।
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे॥ 12-229-12(74352)
बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः।
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि॥ 12-229-13(74353)
प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा।
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः॥ 12-229-14(74354)
भीष्म उवाच। 12-229-15x(6151)
इति संचोदितस्तेन धीरो निश्चितनिश्चयः।
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन्॥ 12-229-15(74355)
प्रह्लाद उवाच। 12-229-16x(6152)
प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते।
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः॥ 12-229-16(74356)
`गहनं सर्वभूतानां ध्येयं नित्यं सनातनम्।
अनिग्रहमनौपम्यं सर्वाकारं परात्परम्॥ 12-229-17(74357)
सर्वावरणसंभूतं तस्मादेतत्प्रवर्तते।
तन्मया अपि संपश्य नानालक्षणलक्षिताः॥ 12-229-18(74358)
स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः।
पुनर्दर्शति संप्राप्ते------सुरेश्चरः॥' 12-229-19(74359)
स्वभावात्संप्रवर्तन्ते निवर्तन्ते तथैव च।
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते॥ 12-229-20(74360)
पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः।
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह॥ 12-229-21(74361)
यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा।
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः॥ 12-229-22(74362)
यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम्।
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत्॥ 12-229-23(74363)
अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः॥ 12-229-24(74364)
अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृतिमेव च।
अप्रयत्नेन पश्यामः केषां चित्तत्स्वभावतः॥ 12-229-25(74365)
प्रतिरूपतराः केचिद्दृस्यन्ते बुद्धिमत्तराः।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमं॥ 12-229-26(74366)
स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा।
शुभाशुभास्तदा तत्र तस्य किं मानकारणम्॥ 12-229-27(74367)
स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः।
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा॥ 12-229-28(74368)
कर्मजं त्विह मन्यन्ते पलयोगं शुभाशुभम्।
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु॥ 12-229-29(74369)
यथा वेदयते कश्चिदोदनं पायसं ह्यदन्।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम्॥ 12-229-30(74370)
विकारानेव यो वेद न वेद प्रकृतिं पराम्।
तस्य स्तंभोऽभवेद्बाल्यान्नास्ति स्तंभोऽनुपश्यतः॥ 12-229-31(74371)
स्वभावभाविनो भावान्सर्वानेवेह निश्चये।
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति॥ 12-229-32(74372)
वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम्।
तस्माच्छक्र न शोचारि सर्वं ह्येवेदमन्तवत्॥ 12-229-33(74373)
निर्ममो निरहंकारो निरीहो मुक्तबन्धनः।
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ॥ 12-229-34(74374)
कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः।
नायासो विद्यते शक्र पश्यतो योगवित्तया॥ 12-229-35(74375)
प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे।
द्वेष्टारं च न पश्यामि यो ममाद्य विरुध्यति॥ 12-229-36(74376)
नोर्ध्वं नावाङ्वतिर्यक्च न क्वचिच्छक्र कामये।
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम्॥ 12-229-37(74377)
शक्र उवाच। 12-229-38x(6153)
येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते।
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते॥ 12-229-38(74378)
प्रह्लाद उवाच। 12-229-39x(6154)
आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया।
गुरुशुश्रूषया शक्र पुरुषो लभते महत्॥ 12-229-39(74379)
स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः।
स्वभावादेव तत्सर्वं यत्किंचिदनुपश्यति॥ 12-229-40(74380)
`नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः।
वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः॥ 12-229-41(74381)
विवेकप्रत्ययापन्नमात्मानमनुपश्यति।
विरज्यति ततो भीत्या परमेश्वरमृच्छति॥ 12-229-42(74382)
त्रातारं सर्वदुःखानां तत्सुखान्वेषणं ततः।
करोति सद्भिः संसर्गमलं सन्तः सुखाय वै॥ 12-229-43(74383)
सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया।
सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति॥ 12-229-44(74384)
विषयेच्छाकृतो धर्मं सरजस्को भयावहः।
धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः॥ 12-229-45(74385)
भक्तिहीनो भवत्येव परमात्मनि चाच्युत।
वाचके वाऽपि च स्थानं न हन्त्येव विमोचितः॥ 12-229-46(74386)
सार्क्ष्ये चास्य रतिर्नित्यं संसारे च रतिर्भवेत्।
तस्य नित्यमविज्ञानादात्माचैव न सिद्ध्यति॥ 12-229-47(74387)
उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते।
आशौचं वर्धते नित्यं न शाम्यति कथंचन॥ 12-229-48(74388)
विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते।
हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान्॥ 12-229-49(74389)
न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः।
स्वतःसिद्धं न भोगस्तं स्वतः सिद्धं न वेत्ति च।
चिद्रूपधारणं चैव परसृष्टिमथाव्ययम्॥ 12-229-50(74390)
नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः।
तीर्णपारं न जानाति महामोहसमन्वितः।
आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः॥ 12-229-51(74391)
अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः।
आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन्॥ 12-229-52(74392)
नियतेनैव सद्भावस्तेन जन्मान्तरादिषु।
कर्मसञ्चयतूलौघः क्षिप्यते ज्ञानवायुना॥ 12-229-53(74393)
एवं युक्तसमाचारः संसारविनिवर्तकः।
अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा॥ 12-229-54(74394)
येन चायं समापन्नं वैतृष्ण्यं नाधिगच्छति।
अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत्॥ 12-229-55(74395)
प्रथमं तत्कृतेनैव कर्मणा परिमृच्छति।
द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति॥ 12-229-56(74396)
एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः।
सुपुप्त्याख्यस्तुरीयोसौ न च ह्यावरणान्वितः॥ 12-229-57(74397)
लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत्।
आत्मन्यायासयोगेन निष्क्रियं स परात्परम्॥ 12-229-58(74398)
आयामे तां विजानाति मायैषा परमात्मनः।
प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका॥ 12-229-59(74399)
स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत्।
शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः॥ 12-229-60(74400)
साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः।
तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर॥ 12-229-61(74401)
एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात्।
उपायमेतदाख्यातं मा वक्रं गच्छ देवप॥ 12-229-62(74402)
ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम्।
यावदारब्धमस्येह तावन्नैवोपशाम्यति॥ 12-229-63(74403)
तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः।
यदस्य वाचकं वक्ष्ये संस्मरे तद्भवेत्तदा॥ 12-229-64(74404)
तेनतेन च भावेन अपायं तत्र पश्यति।
स्थानभेदेषु वागेषा तालुसंस्था यथा तथा॥ 12-229-65(74405)
तद्वदुद्धिगता ह्यर्था बुद्धिमात्मगतः सदा॥ 12-229-66(74406)
समस्तसंकल्पविशेषमुक्तं
परं पराणां परमं महात्मा।
त्रय्यन्तविद्भिः परिगीयतेऽसौ
विष्णुर्विभुर्वास्ति गुणो न नित्यम्॥ 12-229-67(74407)
वर्णेषु लोकेषु विशेषणेषु
स वासुदेवो वसनान्महात्मा।ट
गुणानुरूपं स च कर्मरूपं
ददाति सर्वस्य समस्तरूपम्।
न संदृशे तिष्ठति रुपमस्य
न चक्षुषा पश्यति कश्चिदेनम्॥ 12-229-68(74408)
भक्त्या च धृत्या च समाहितात्मा
ज्ञानस्वरूपं परिपश्यतीह॥ 12-229-69(74409)
वदन्ति तन्मे भगवान्ददौ स
स एव शेषं मघवान्महात्मा।
एवं ममोपायमवैहि शक्र
तस्माल्लोको नास्ति मह्यं सदैव॥' 12-229-70(74410)
भीष्म उवाच। 12-229-71x(6155)
इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत्।
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत्॥ 12-229-71(74411)
स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः।
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम्॥ ॥ 12-229-72(74412)
इति श्रीमन्महाभारते शन्तिपर्वणि मोक्षधर्मपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः॥ 229॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-229-2 श्रोतुं त्वत्तो वदस्व मे इति ट. थ. पाठः॥ 12-229-4 असक्तं फलेच्छारहितम्। संयमे रतं इति ट. थ. पाठः। समये रतं इति झ. पाठः॥ 12-229-5 शून्यागारनिवासिनं इति झ. पाठः॥ 12-229-7 आत्मनि प्रतीचि। श्रेयस्यानन्दरूपे। ज्ञाने चिन्मात्रे। धीरं कुतर्कानभिभूतम्। सर्वज्ञं समदर्शनमिति झ. पाठः॥ 12-229-11 भवति त्वयि। अनपगान् स्थिरान्॥ 12-229-12 बालजनैः समारागद्वेषादिराहित्यात्। मन्यमानो जानन्नात्मज्ञानार्थं किं श्रेयः प्रशस्ततरं साधनम्॥ 12-229-15 तदुक्तमनुवर्णयन् इति ध. पाठः॥ 12-229-21 नास्ति काचित्स्वका रतिः इति थ. पाठः॥ 12-229-25 अनिष्टस्याप्यनिर्वृत्तिमिष्टनिर्वृत्तिमेव च इति ट. थ. पाठः॥ 12-229-30 कश्चिदोदनं वायसो ह्यदन्निति झ. पाठः॥ 12-229-32 वुध्यमानस्य वै दर्पं मनो वा इति ध. पाठः॥ 12-229-35 पश्यतो लोकविद्यया इति ध. पाठः। लोकमव्ययं इति झ. पाठः॥ 12-229-36 यो मामद्य ममायते इति झ. पाठः॥ 12-229-37 न ज्ञाने कर्म विद्यते इति झ. पाठः॥ 12-229-38 प्रज्ञा ज्ञानम्। शान्तिस्तत्फलम्॥ 12-229-39 महत् मोक्षम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|